top of page
मूकपञ्चशती (आर्या पादारविन्द स्तुति कटाक्ष मन्दस्मितशतकम्) | Mukapanchashati (Arya padaravinda stuti kataksha manda smita shatakam) Part-02
॥ स्तुतिशतकम् ॥
पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां
वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां
वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥ १॥
तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे
संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे ।
कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे
विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे ॥ २॥
ये सन्ध्यारुणयन्ति शंकरजटाकान्तारचन्रार्भकं
सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे ।
